whatsapp support
Whatsapp Channel
Contact

अस्माकं विषये

About Us

सम्पूर्णविश्वे संस्कृतभाषा प्राचीना दिव्यभाषा इति मन्यते । अनेकाः विदेशीयाः भाषाः अपि संस्कृततः एव उत्पन्नाः सन्ति ।

Sanskrit is considered as an ancient and divine language across the world. Many foreign languages have been originated from Sanskrit.

प्रथमं वारं क्रीडात्मकरीत्या संस्कृत-ओलम्पियाड् आयोज्यते । संस्कृतं वैज्ञानिकीं दृष्टिं प्रवर्तयति इति । अधुना केन्द्रीयसंस्कृतविश्वविद्यालयः तथैव च लिटिल् गुरुः इत्‍येतौ मिलित्वा संस्कृतस्य छात्राणां कृते अद्वितीयम् ओलम्पियाड्-मञ्चं प्रदातुं प्रवृत्तौ स्तः। अद्यत्वे विश्वस्य बृहत्तमः संस्कृतविश्वविद्यालयः नवदेहलीस्थ: केन्द्रीयसंस्कृतविश्वविद्यालयः अस्ति । तदतिरिक्तं भारतस्य एक: एव बहुपरिसरीय: संस्कृतविश्वविद्यालय: अपि अयम् एव अस्ति । लिटिल् गुरुः विश्वस्य प्रथमः संस्कृतगेमिफाइड् मञ्चः अस्ति । लिटिल् गुरु: इत्यस्य ऑनलाइन संस्कृतशिक्षणस्य गेमिफाइड् दृष्टिकोणेन, यत्र नवीनतमा यान्त्रिकबुद्धिमत्तया सञ्चालिता प्रौद्योगिकी, परम्परागतपद्धतिश्च विलसत:, तद्द्वारा संस्कृतशिक्षणम् अतीव सरलम् आनन्ददायकं च जायते।  उभौ मिलित्वा संस्कृत-ओलम्पियाड् २०२३-२४ प्रस्तुतं कुरुतः ।

Sanskrit Olympiad is going to be a pioneer in Sanskrit world as for the first time any Olympiad is organized in gamified way. We follow the Motto: 'Play is the new Learn'. It is a subject that inculcates scientific temper. Now Little Guru and Central Sanskrit University come along with a great and unique opportunity for all Sanskrit students in this world. Central Sanskrit University is the biggest Sanskrit University in the world today. Also, it is the only Multi-Campus Sanskrit University in India. Little Guru is the world's first Sanskrit Gamified app. With its gamified approach to learning Sanskrit online; which uses the latest AI-driven technologies and classical designs, Sanskrit learning becomes super simple and fun. Both unite together to present the Sanskrit Olympiad 2023-24.

  • 1. क्रीडात्‍मकोपायै: छात्राणां संस्कृतभाषाकौशलं विकसितं कर्तुम्
  • 2. आधुनिकप्रौद्योगिक्याः साहाय्येन परीक्षायाः अनुभवं परिष्‍कर्तुम्

  • 1. To develop the Sanskrit language skills of students by engaging them in a gamified content
  • 2. Improve the experience of examination with the help of modern technology
  • 1. शिक्षणं रोचकं सुलभं च कर्तुं शैक्षिकसंस्थानां कृते उपलब्धं प्रौद्योगिकं मञ्चं निर्मातुम्
  • 2. आधुनिकप्रौद्योगिक्याः साहाय्येन परीक्षायाः अनुभवं परिष्‍कर्तुम्

  • 1. To create a tech platform available to educational institutes to make learning interesting and easy
  • 2. To create teachers and students friendly online exam pattern
  • षष्ठीकक्षातः स्नातकोत्तरपर्यन्तं छात्राणां कृते क्रीडात्‍मक-रीत्या प्रतिस्पर्धात्मकं संस्कृतं शिक्षयितुं नूतनं संस्कृतजगत् प्रोत्साहयितुं दर्शयितुं च कार्यविधानम्

  • To encourage and show new Sanskrit world to students from class 6th to post graduation to learn competitive Sanskrit in a gamified way